________________
पापः पापेन कर्मणा' इत्यादि-वेदपदैः पुण्यपापयोः सिद्धिश्च ।
हे अचलभ्राता ! त्वमित्थं मन्यसे-दर्शन-विप्रतिपत्तिश्चाऽत्र, केषाञ्चिद् दर्शनं पुण्यमेवाऽस्ति न पापम् । तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं मनुष्यतिर्यग्नरकादिभवफलाय हेतु, तद् क्षयाच्च मोक्षप्राप्तिरिति । यथातिपश्याहारग्रहणात्-उत्कृष्टं स्वास्थ्यमारोग्यं भवति च पथ्याहारवर्जनात् आरोग्यहानिः । अशेषाहारपरिक्षयाच्च शून्यभावकल्पोऽपवर्गः अन्येषां तु पापमेवेकम् । नैकान्ततः संसारिणः सुखं दुःखं वा अस्ति । देवानामपि ईर्ष्यादियुक्तत्वात् नारकाणामपि वा पञ्चेन्द्रियत्वानुभवात् । पुण्यपापाख्यवस्तुक्षयाच्च मोक्ष इति । अपरेषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं तत्क्षयाच्च निःश्रेयसावाप्ति । तदेवं दर्शनानां परस्परविरुद्धत्वेनाप्रमाणत्वाद्। अस्मिन् विषये प्रमाणाभाव इति । __तथा "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादिना प्रतिपादिता सत्ता । तवः संशयः, तेषामयमर्थ:दर्शनां अप्राप्यं परस्परविरुद्धत्वेन मन्यसे तदसाम्प्रतम्, एकस्य प्रमाणत्वात् । तत्र न तावत् पुण्यमेवापचीयमानं दुःखकारणं तस्य सुखहेतुत्वेन इष्टत्वात् । स्वल्पस्यापि
(
४५
)