________________
सन् पुरुषत्वं प्राप्नोति गवादयः पशुत्वमेव । अमूनि वेदपदानि किल भवान्तरसादृश्यप्रतिपादकानि, तथा "शृगालो वै एष०” इत्यादीनि तु वैसदृश्यप्रापकानि ततः संशयः । परं नायमर्थः समर्थ । सत्यार्थस्तु
"पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि सन्ति तानि, 'मनुष्योऽपि कश्चिन्मार्दवेत्यादिगुणो युक्तो मनुष्यायुः कर्म बद्ध्वा पुनरपि मनुष्यो भवति इत्यर्थकथितान्येव, न तु मनुष्यो मनुष्य एव भवति' इति निश्चायकानि ।
तथा मनुष्यः कथं पशुर्भवति ? तवाभिप्रायः कार्य कारणानुरूपं भवति । न खलु शालिबोजाद् गोधूमाकुरः सम्भवतीति युक्तिः न समीचीना, यतो गोमयादिभ्यो वृश्चिकादिउत्पत्तेर्दर्शनात् कार्यवैसदृश्यमपि सम्भवत्येव । अर्थात्-ततो भवान्तरसादृश्यमेवोपपत्तिमत्, तत्र वेदपदानामर्थः च शब्दात् युक्ति न जानासि । तेषामयमर्थः ।
पुरुषः खल्विह जन्मनि स्वभावेन गुणयुक्तो मनुष्यनामगोत्रकर्मणी बद्धः मृत: सन् पुरुषत्वं प्राप्नोति, न तु नियमेन । एवं पशवोऽपि पशुभावमायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बद्धाः मृताः सन्तः पशुत्वमाप्नुवन्ति,
तीन
( ३३ )