SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (५) अथ पञ्चमो गणधरः श्रीसुधर्माभिधः 'यो यादृशः स तादृशः' संशयः श्रीइन्द्रभूतिप्रमुखान् प्रधानपण्डितान् स्वछात्रपरिवारसहितान् प्रव्रजितान् प्रभोश्वि श्रुत्वा पञ्चमः श्रीसुधर्माभिधो विबुधोऽपि स्वपञ्चशतछात्रपरिवारसमेतः सर्वज्ञश्रीमहावीरप्रभोः सकाशमागच्छति । किंभूतेनाध्यवसायेनेत्याह, स च भगवन्तं दृष्ट्वा अतीवप्रसन्नो जातः । अत्रान्तरे प्रभुणा प्रोक्तम्यो यादृशः स ताहश, इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥ १॥ किं मन्यसे यो मनुष्यादि यादृशः इह भवे स पर भवेऽपि तादृशः एव ? नन्वयमनुचितः तव संशयः । यतोऽसौ विरुद्धवेदश्रुतिनिबन्धनः तानि चामूनि पदानि-'पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्' तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादि च तन्न, पुरुषो मृतः ( ३२ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy