________________
न तु नियोगतः, जीवानां गतिविशेषस्य कर्मसापेक्षत्वात् । इह लोके किञ्चिदिह परलोके वा न सर्वथा समानमसमानं वाऽस्ति । तथा चेह भवे युवा निजैरप्यतीतानागतैः बालवृद्धपर्यायैः सर्वथा न समानोऽवस्थाभेदग्रहणात्, नाऽपि सर्वथाऽसमानः। एवं परलोकेऽपि जनः देवत्वमापन्नः न सर्वथाऽसमानः-जीवत्वाद्यन्वयात् । ___एवं च प्रभुश्रीवीरवचनैः छिन्नसन्देहः पञ्चमः श्रीसुधर्माभिधः पण्डितोऽपि स्वपञ्चाशतछात्रपरिवारसहित: प्रवजितः। तत्क्षणाच्च “उपन्न इ वा (१) विगमेइ वा (२) धुवेइ वा (३)" इति सर्वज्ञविभुश्रीमहावोरवदनाद् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् ।
॥ इति श्रीसुधर्माभिधः पञ्चमो गणधरः ॥ .