________________
नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वं मत्लक्षणं क्षोभात् ।
अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां च वेदपदार्थानां अर्थं न जानासि, तेन संशयं कुरुषे । तेषा च तव संशयनिबन्धनानां वेदपदानामयमर्थो-वक्ष्यमाण इति गाथार्थः । तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' इत्यादि वेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते । तथा 'सत्येन लभ्यस्तपसा ह्यष प्रात्मा ब्रह्मचर्येण नित्यं । ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीराः यतयः संयतात्मानः' इत्यादि । ..अस्यार्थः-एषः ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः ज्ञेय इत्यर्थः । एभिस्तु वेदपर्देर्भूतेभ्यः पृथक् अात्मा प्रतीयते । एतेषां चायमर्थस्तव बुद्धौ प्रतिभासते । न देहात्मनो दसज्ञास्ति, विज्ञानघनेत्यादि वेदपदस्य व्याख्या पूर्ववत् ज्ञेया। न वरं न प्रेत्य संज्ञाऽस्ति, भूतसमुदयमात्रधर्मत्वात् चेतनस्य, तेन चाऽमूनि किल शरीरातिरिक्तात्मनोच्छेदपराणि वर्तन्ते । सत्येन लभ्यस्तपसा 'एषः' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि ततः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः ।
( २७ )