SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सत्येन तपसा ब्रह्मचर्येण च स्फुट नित्यं-नियमेन ज्योतिर्मयो शुद्धो भवति। यं तथा भूतात्मने धीराः ध्यानैकनिषण्णाः पश्यन्ति । तथाहि योऽर्थोऽनुभूतः स स्मर्यते न शेषस्तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चाऽतिप्रसङ्गो बाधकं प्रमाणम् । अननुभूते विषये यदि स्मरणं भवेत्, ततोऽननुभूतत्वाविशेषात् खरविषाणेः अपि स्मरणप्रसक्तिरित्यतिप्रसङ्गः । विवक्षितेषु इन्द्रियेषु सत्सूपलभ्यो योऽर्थः । स भवान्तरे तद् विगमेऽपि जातिस्मरणज्ञाने स्मर्यते । यस्मात् 'विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादि वेदपदैः अस्मद् उक्तार्थप्रकारेण आत्मसत्ता प्रकटितव । “सत्येन लभ्यस्तपसा ह्यष अात्मा०" इत्यादि वेदप्रमाणभ्युपगमात् । एवं च प्रभुश्रीवीरवचनैः छिन्नसन्देहः तृतीयश्रीवायुभूतिरपि स्वपञ्चशतछात्रपरिवारसमेतः प्रवजितः। तत्क्षणाच्च “उपन्नेइ वा (१) विगमेइ वा (२) धुवेइ वा (३) इति सर्वज्ञश्रीमहावीरप्रभुवदनात् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् । ॥ इति श्रीवायुभूतिः नाम तृतीयो गरगधरः ।। ( २८ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy