________________
(३) अथ तृतीयो गणधरः श्रीवायुभूतिः .
'तज्जीवसंशयः' तौ ज्येष्ठभ्रातरौ श्रीइन्द्रभूति-अग्निभूतिद्वावपि मूर्धन्यपण्डितौ प्रव्रजितौ तथा शिष्यजातौ श्रुत्वा तृतीयः श्रीवायुभूतिरपि निजपञ्चशतछात्रपरिवारसमेतः प्रभुसकाशमागच्छति । सातिशयनिजबन्धुद्वयनिष्क्रमणाकर्णनादपगताभिमानो भगवति सजातसर्वज्ञप्रत्ययः सन्नेवमवधारयत्व्रजामि रण इति वाक्यालङ्कारे तथा भगवन्तं वन्दित्वा ममाऽपि पूज्य एव सस्तद् गच्छामि च स्वसंशयमपि पृच्छामि इति निश्चित्य सोऽप्यगच्छत्, एवं सर्वेऽपि आगताश्च । सर्वज्ञेन श्रीमहावीरभगवताऽपि प्रतिबोधिताः। तत् क्रमश्चायम्
तज्जीवतच्छरीरे, सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥
हे गौतमगोत्रवान् वायुभूते ! तव चेतसि संशयोऽयमस्ति । यदुत-'स एव जीवस्तदेव च शरीरम्' इति ।
(
२६
)