SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अमूर्त्तत्वे सति ततः सकाशादात्मनां अनुग्रहोपघातौ सम्भवात्, आकाशादिवत् । किञ्च-कर्म विना एक: सुखी, अन्यो दुःखी; एकः प्रभुः अन्य किङ्करः; एकः नृपः अन्यः रङ्कः, एकः श्रीमान् अन्यः दरिद्रः इत्यादि प्रत्यक्षं विश्ववैचित्र्यं कथं नाम सम्भवति ? एतत् सर्वमपि कर्म विना न सम्भवति । तस्मात् कर्म एव कारणं ज्ञेयम् । यत् यत् क्रिया शुभं अशुभं वा क्रियते तत् तत् फलमपि शुभं अशुभं वा प्राप्यते । एतद् फलं शुभाऽशुभं कर्म एवाऽस्ति। इत्यादि प्रभुश्रीवीरवचनैः छिन्नसंदेहः श्रीअग्निभूतिः निजपञ्चशतछात्रपरिवारसमेतः प्रवजितः । तत्क्षणाच्च "उपन्नेइ वा (१) विगमेइ वा (२) धुवेइ वा (३)" इति प्रभुश्रीवीरवदनात् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् । ॥ इति श्रीअग्निभूतिः नाम द्वितीयो गणधरः ।। ( २५ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy