________________
इत्यनेन विष्णोर्महिमा प्रतीयते । अर्थात्-अत्र विष्णोः महिमा, विष्णोः व्यापकत्वं सर्वत्र प्रतीयते; नत्वन्यवस्तूनामभावः । तद्वत् अत्राऽपि “पुरुष एवेदं 'ग्नि' सर्वं यद् भूतं यच्च भाव्यम्” तत् सर्वं प्रात्मैवइत्यनेन वेदपदेन आत्मनो महिमा वर्णितः, किन्तु प्रात्मातिरिक्तकर्म इत्यादिकं नास्तीति न ज्ञायते । अर्थात्-आत्मातिरिक्त कर्मेत्यादिकमप्यस्ति ।
किञ्च-अमूर्तस्यात्मनो मूर्तेन कर्मणा कथमनुग्रहस्तथा कथमुपघात: ? तद् द्वयमपि अयुक्तम् । यत् अमूर्तस्याऽपि ज्ञानस्य मदिरादिना उपघातो दृष्ट एव तथा ब्राह्मी आदि
औषधेन अनुग्रहोऽपि दृष्ट एव । तस्मात् अमूर्तस्यापि मूर्तेन अनुग्रहोऽपघातौ द्वयमपि सम्भवतीति मन्यते । अन्यच्च समानेऽपि सेवाद्यारम्भे समानेऽपि च स्वामिचित्त । परिज्ञानादिरूपे परस्परं-मनुष्याणां फलभेदः स हेत्वन्तरं विना न युक्तिमियत्तिम् ।
ततो यदेव तत्र किञ्चनाऽपि हेत्वन्तरं तत् कर्मेति प्रतिपत्तिः । यथा-"पुण्यः पुण्येन कर्मणा, पाप: पापेन कर्मणा" इति श्रुतिवचनप्रामाण्यात् कर्मास्तीति ध्र वम् । तच्च कर्म-पुद्गलस्वरूपं नाऽमूर्त्तमिति कथम् ? उच्यते
( २४ )