________________
'हे गौतमाग्निभूते ! कः संदेहस्तव कर्मणः ?' त्वमेतत् मन्यसे कर्म ज्ञानावरणीयादि किमस्ति नास्ति वा ? नन्वयमनुचितस्तव सन्देहः, यतोऽयं सन्देहस्तव विरुद्धपदश्रुतिनिबन्धनस्तेषां सम्यक् अर्थं त्वं न जानासि । त्वं यथा न जानासि तथाऽहं वक्ष्यामि तानि च वेदपदानि"पुरुष एवेदं ग्नि सर्वं यद्भूतं यच्च भाव्यम्,” उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यदूरे यदु अन्तिके यदन्तरस्य सर्वस्यास्य बाह्यते । इत्यादि पुण्यः पुण्येनेत्यादि तेषां अयं अर्थ:-तव चेतसि, पुरुषः
आत्मा एबकारोऽवधारणे स च पुरुषातिरिक्तस्य कर्मेश्वरादिनिषेधार्थः, इत्यनेन यद् सुर-नर-तिर्यक्-पृथ्वीप्रमुखं वस्तु दृश्यते तत् सर्वं प्रात्मैव।
इदं सर्वप्रत्यक्षं चेतनाऽचेतनस्वरूपं 'ग्नि' इति वाक्यालङ्कारे, यद्भूतं अतीतकाले, यच्च भाव्यं अनागतकाले उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्यास्य । मुक्तिसंसारावपि स एव पुरुष इत्यर्थः । अमृतस्य अमरणस्य ईशानः प्रभुः अतिशयेन वृद्धि उपैति, एजति चलति पश्वादि यन्नेजति न चलति पर्वतादि आर्षत्वात् यत्र ऐकारो न भवति, दूरे समीपे तत्सर्वं पुरुष एव, तथा चेतनाऽचेतन
( २२ )