________________
(२) अथ द्वितीयो गणधरः श्रीअग्निभूतिः
'कर्मसंशयः' तं मूर्धन्यपण्डितप्रवरं श्रीइन्द्रभूतिं निज-पञ्चशतविद्यार्थीपरिवारसहितं प्रवजितं श्रुत्वा, द्वितीयश्रीअग्निभूतिपण्डितोऽपि निज चेतसि चिन्तयामास । 'अहो ! कदाचिद् जातु द्रवेद् अद्रिः, हिमानी प्रज्वलेदपि, अग्निः शीतः, वायुः स्थिरः सम्भवेन्न तु हारयेद् मम ज्येष्ठबन्धुः श्रीइन्द्रभूतिः ।' प्रपच्छ जनान् अश्रद्धद् भृशम् । ततश्च निजचेतसि निश्चये जाते, अधुनैव तत्र गत्वा तं महाधूर्तं वादिनं जित्वा च स्वसहोदरं ज्येष्ठबन्धुं परिवारयुक्त वालयामीति ।
सोऽप्येवं श्रीअग्निभूतिः स्वपञ्चशतछात्रपरिवारसमेत: शीघ्र तत्र प्रभुसमीपं समागतः । प्रभुणाऽभाषितस्तथा। तस्य चित्तस्थं संदेहं (संशयं) स्फुटीकृत्य प्रभुः अवदत्
हे गौतमाग्निभूते ! कः, संदेहस्तव कर्मणः ? । कथं वा वेदतत्त्वार्थ, विभावयसि न स्फुटम् ॥
( २१ )