________________
ततो नोपलभ्यते तदसम्यक् । इदं चैतन्यं प्रत्येकं भूतानां धर्मः समुदायस्य वा ? न तावत् प्रत्येकमनुपलम्भत्वात्, नहि प्रति परमारण, संवेदनमुपलभ्यते, अपि च प्रति परमाण, संवेदनं भवेत् तहि पुरुषसहस्रचैतन्य वृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूप भवेत् ।
तथा 'द, द, द,' कोऽर्थः ? -दमो, दानं, दया इति दकारत्रयं यो वेत्ति स जीवः । किञ्च-'विद्यमानभोक्तृकं इदं शरीरं, भोग्यत्वात्. प्रोदनादिवत्' इत्याद्यनुमानेनाऽपि । तथाक्षीरे घृतं तिले तेलं, काष्ठेऽग्निः सौरभं सुमे । चन्द्रकान्ते सुधा यद्वद्, तथाऽऽत्माऽङ्गगतः पृथक् ॥ १ ॥
“स वै अयं प्रात्मा ज्ञानमयः" ।
"सत्येन लभ्यस्तपसा ह्यष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोऽयं पश्यन्ति धीरा यतयः संयतात्मानः ?"
"दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः" । . ते मोहात् अविरुद्धोऽपि अर्थः विरुद्धोऽवभासते । यथा-तिमिराभयात् शङ्खोऽपि विरुद्धवर्णयुक्तोऽवभासते । तव चेतसि जीव: किमस्ति नास्ति वा इति संशयः। अतः