SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ घटादिभ्य एव हेतुभूतेभ्यो भवति । घटादिज्ञानपरिणामस्य घटादिपदार्थसापेक्षत्वात् । एवं च एतेभ्यो भूतेभ्यो घटादिवस्तुभ्यस्तत् तदुपयोगतया जीवः समुत्थाय समुत्पद्यतान्येव अनुविश्यति । तस्य कोऽर्थ : ? तस्मिन् घटादौ वस्तुनि विनष्टे वा व्यवहिते जीवोऽपि तदुपयोगरूपतया विनश्यति, अन्योपयोगरूपतया उत्पद्यते, अथवा सामान्यरूपतया अवतिष्ठते । ततश्च न प्रेत्यसंज्ञाऽस्ति इत्यस्य कोऽर्थ : ? न प्राक्तनी घटाद्युपयोगस्वरूपा संज्ञा अवतिष्ठते, वर्त्तमानोपयोगेन तस्या विनाशितत्वादिति । तेभ्यः समुत्थाय कथञ्चिद् उत्पद्यतेतिपुनस्तान्येव भूतानि प्रनुविनश्यति । तेषु विवक्षितेषु भूतेषु आत्माऽपि तेन विज्ञानघनात्मना उपरमतेऽन्य विज्ञानात्मना उत्पद्यते । न प्राक्तनी घटा विज्ञानसंज्ञाऽवतिष्ठते । , - अथवा एवं - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यतीत्येतन्न, यतः प्रेत्यसंज्ञाऽस्ति-परलोकसंज्ञाऽस्ति । कथं ज्ञानस्य स्वसंविदत्वे ग्रात्मनः प्रत्यक्षत्वं ? ज्ञानस्यात्मगुणत्वाभावात् तदयुक्त ं भूतगुणत्वे सति पृथिव्या: काठिन्यस्यैव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते चैतन्ये लोप्टादौ मृतावस्थायां चानुपलम्भात्, ग्रथ तत्राऽपि चैतन्यमस्ति केवलं शक्तिरूपेण , ( १६ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy