________________
इति । तान्यमूनि वेदपदानि-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्यसंज्ञास्ति' इति । तथा "स वै अयमात्मा ज्ञानमयः" इत्यादीनि च वेदपदानां अयमों तव चेतसि विपरिवर्तते ।।
विज्ञानमेव-चैतन्यमेव घनो नीलादिरूपत्वात् विज्ञानघन: स एव एतेभ्यः अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्या दिलक्षणेभ्यो भूतेभ्यः समुत्थाय-उत्पद्य-पुनस्तान्येवानु विनश्यति-तान्येवानि भूतानि अनुसृत्य विनश्यति । तत्रेवाव्यक्तरूपतया संलीनं भवतीति भावः । न प्रेत्यसंज्ञास्ति । अर्थात्-गमनागमनादिचेष्टावान् प्रात्मा एव एतेभ्यो भूतेभ्यः-पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय-प्रकटीभूय मद्यांगेषु मदशक्तिरिव, ततस्तानि-भूतान्येव अनुविनश्यति-तत्रैव विलयं याति । यथा जले बुद्बुद इव, ततो भूतातिरिक्तस्य
आत्मनोऽभावात् न प्रेत्यसंज्ञाऽस्ति-मृतस्य वा मृत्वा पुनर्जन्म नास्ति अर्थात् पुनर्जन्माऽसम्भव मिति । __परमयमयुक्तोऽर्थः । तव चेतसि नास्ति सुष्ठः अर्थः । न परलोकः न तत्संज्ञाऽस्ति, ततः कुतो जीवः ? युक्त्युपपन्नश्वायमर्थ इति ते मतिः। यतो नाऽसौ प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुमानेन, यत: तल्लिङ्गलिङ्गिसम्बन्धपूर्वकम् । न चाऽत्र लिङ्गस्य लिङ्गिना सह
( १४ )