SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ मम नामाऽपि विजानाति च गोत्रमपि जानाति । अथवाऽहं तु सर्वत्रैव विख्यातोऽस्मि, को वा नाम न वेत्ति माम् ? नैतदाश्चर्यम् ।' मनसि श्रीइन्द्रभूतिना विशितं, यदि मे हृद्गतं गुप्तसन्देहं (संशयं) प्रकाशयति, तदा जानाम्यहं स एव सर्वज्ञः, अन्यथा तु न किंचन । तत्काल प्रभुणा प्रोक्तम् चिन्तयन्तमिति प्रोचे, प्रभः को जीवसंशयः ? । विभावयसि नो वेद-पदार्थं शृणु तान्यथ । "हे गौतम ! किं मन्यसे 'को जीवसंशयः ?' अस्ति जीवो वा नास्ति ?" नन्वयमनुचित एव तव संशयः, यतोऽयं संशयस्ते विरुद्धवेदपदश्रुतिनिबन्धनः। तेषां वेदवाक्यानामर्थं त्वं समीचीनं न जानासि। इति भाषमाणः सर्वज्ञो विभुः श्रीमहावीरः समुद्रं मथ्यमानरिव, गङ्गापूररिव, आदिब्रह्मध्वनिमिव वेदध्वनि उच्चार्यमानः वेदानामर्थः प्रकाशयामास । 'हे गौतम ! त्वं वेदानामर्थं यथा न जानासि तथा अहं वक्ष्यामि । तेषामयमों-वक्ष्यमाणस्वरूपः अन्ये तु किं शब्दं परिप्रश्नार्थे व्याचक्षते तच्च न युज्यते । भगवतः सकलसंशयातीत् । तव संशयः विरुद्धपदश्रुति निबन्धनः ( १३ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy