________________
(शार्दूलविक्रीडित-वृत्तम्) चन्द्रः कि ? स न यत् कलङ्ककलितः सूर्योऽपि नो तीव्ररुक, मेरुः कि ? न स यनितान्तकठिनो विष्णुः ? न यत् सोऽसितः। ब्रह्मा कि ? न जरातुरः स च जराभीरुन यत्सोऽतनु,तिं दोषविजिताऽखिलगुरणाऽऽकीर्णोऽन्तिमस्तीर्थकृत् ।१५।
स्वर्णसिंहानासीनं सुराऽसुरेन्द्रादिसेवितं चतुस्त्रिशंदतिशयसमलङ्कृतं विश्वपूज्यं भगवन्तं सर्वज्ञ श्रीमहावीरं दृष्ट्वा श्रीइन्द्रभूतिः द्विजः स्वचेतसि चिन्तयामासअस्याग्रेऽहं कथं वक्ष्ये ?, पार्वे यास्यामि वा कथम् ? । . संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः ।।
कथंचिदपि मम सद्भाग्येन भवेदत्र मे जयस्तदा पण्डितमद्धन्योऽहं भवामि जगत्त्रये । इत्यादि चिन्तयन्नेव श्रीइन्द्रभूति: द्विजः । अत्र भगवता श्रीमहावीरजिनेश्वरेण स्वसुधामधुरयागिरा नाम-गोत्रोक्तपूर्वकमाभाषितः ।
हे गौतमेन्द्र भूते ! त्वं, सुखेनागतवानसि । इत्युक्तऽचिन्तयद् वेत्ति, नामापि किमसौ मम ॥
इत्थं प्रभुणा नाम-गोत्राणां संलप्तस्य श्रीइन्द्रभूतेः पण्डितस्य चिन्ता अभवत् । “अहो ! आश्चर्यम्, अयं
( १२ )