________________
नाहमेतस्य सर्वज्ञाभिमानरूपमाटोपं सहे। यथा-आकाशे द्वौऽकौं, गुहायां द्वौ केसरिसिंहौ, प्रत्याकारे च द्वौ खड्गी स्थातुं न शकय ते तथैव विश्व द्वयोः सर्वज्ञयोः सम्भावनाऽपि असम्भवं खलु । किं सर्वज्ञावहं स च ?' नास्ति, एकोऽहं सर्वज्ञः, न अन्य एव।
ततः सर्वज्ञविभु श्रीमहावीरं वन्दित्वा प्रतिनिवर्तमानाः जना: प्रागच्छन्ति, तान् जनान् सोपहास इन्द्रभूति: पृच्छति"भो ! भो ! जनाः ! किं दशित: स सर्वज्ञः ? कीदग् रूप: ? किं स्वरूप: ?" इति । तदा सर्वज्ञप्रभोः अनुपम महिमा वर्णयन्तः जनाः कथयन्ति
(उपजाति-छन्दः) · यदि त्रिलोकी गणनापरा स्यात् ,
तस्या समाप्तिर्यदि नायुषः स्यात् । पारेपरायं गणितं यदि स्यात् ,
गरगयनिःशेषगुरगोऽपि स स्यात् ॥ १ ॥
एतादृशः गुगणवन्तः सर्वज्ञप्रभुः श्रीमहावीरः इति जनाः प्रशंसयामासः । यदा जनैः प्रभोः प्रशंसामश्रोत् इन्द्रभूतिः द्विजः विचारविमूढो सञ्जातः । सोऽचिन्तयत्-नूनमेष महाधूर्तशिरोमणिस्तथा मायायाः कुलमन्दिरं वर्तते ।