SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१) अथ प्रथमो गणधरः श्रीइन्द्रभूतिः _ 'जीवसंशयः' ततो अमी सर्वज्ञं वन्दितुं व्रजन्तीति श्रुत्वा मुख्यः श्रीइन्द्रभूतिद्विजः सामर्षध्मातः प्राणितसर्वज्ञाशंसां सर्वज्ञविभुं श्रीमहावीरं प्रति प्रस्थितश्च । "अहो ! सति मयि सर्वज्ञे अपरोऽयं कः खलु सर्वज्ञत्वं स्वं ख्यापयति, दुःश्रवमेतत् कर्णकटु कथं नाम श्रूयते ? ।" किञ्च-"कदाचित् केनाऽपि मूर्खेण वा पिशुनेन वञ्च्यते वा आश्चर्यम् ? मूर्खतया युक्तायुक्तविवेकविकलत्वात् सुरास्तु कथमनेन वञ्चिताः विस्मयं नीताः। अथवा यादृशः एषः विद्वान् ज्ञानी तादृशाः विबुधा-देवाः । अनुरूपः संयोगस्तस्य ज्ञानिनः एतेषां मूर्खाणां पिशुनानां देवानाम् । यदेवं यज्ञमण्डपं-यज्ञस्थलं तथा मां सर्वज्ञं विहाय तत् समीपं प्रयान्ति ।" यथा तीर्थाम्बुमिव वायसाः, चन्दनमिव मक्षिकाः, सवृक्षान् गजा इव, क्षीरान्नं शूकरा इव, सूर्यप्रकाशवद् घूकाश्च; त्यक्त्वा तद्वद् यज्ञं प्रयान्ति । ( ८ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy