________________
अमुना कथं निखिललोकोऽपि विभ्रमे पातितः ? । क्षणमात्रमपि न क्षमेऽहं, तं विश्व सर्वज्ञं कदाचन । मया बलवन्त: दिग्गजाः उत्खाटिता: कार्यासमिव, तर्हि अस्याकिञ्चनस्य का वार्ता ? किं तिलापिष्टावशेषः कोऽपि तिलोऽवशिष्ट: स्यात् । निजगृहे शूरवीरः कौऽसौ, सर्वज्ञोमत्पुरो भवेत् ? । मद् भयेन गौडदेशोद्भवाः साक्षराः दूरदेशं गताः, गौर्ज रदेशोद्भवाः विबुधाः जर्जरास्त्रासमीयुः, मालवदेशोद्भवाः पण्डिताः मृताः, तिलंगदेशोद्भवाः बुधास्तिलाङ्गाः, लाटदेशोद्भवाः विद्वांसः प्रणष्टाः, द्राविडदेशोद्भवाश्च विबुधाश्च वीडयार्ताः । अहो ! वादिलिप्साऽऽतुरे मय्यमुष्मिन्, विश्व सर्वोत्कटं वादिभिक्षमेतत् । अधुना तस्य ममाऽग्रे वादो कोऽसौ सर्वज्ञमानमुद्वहति ? तत्र तत्कालं गन्तुमहमतिउत्सुकमिति ।
तदा तस्यानुजोऽग्निभूतिः कथयति-"तत्र वादिकृते भवतां किं प्रयासेन ? अलं श्रमेण भवता । अस्य कृते तु अहमेव सक्षमः । किं कमलमुज्झरतुं ऐरावतगजस्य प्रयोगम् ?' किन्तु इन्द्रभूतिराह-"अस्याकिञ्चनस्य कृते तु मम कोऽपि छात्रोऽपि पर्याप्तः, तदपि प्रवादिनाम श्रुत्वा स्थातुमहं न शक्नोमि। अहमेव गमिष्यामि । अस्मिन्नजिते सति सर्व विश्वजयोद्भूतमपि सुयशो विनश्येत् । शरीरस्थं
( १० )