________________
विशालपरिवारसहिताः सन्ति । किं नामानो वा ते द्विजाः इति ? उच्यते । तेषु च (१) प्रथमोऽत्र इन्द्रभूतिः, (२) द्वितीयः पुनर्भवति अग्निभूतिः, (३) तृतीयो वायुभूतिः, (४) चतुर्थो व्यक्तः, (५) पञ्चमः सुधर्मास्वामी, (६) षष्ठो मण्डितः, (७) सप्तमो मौर्यपुत्रः, (८) अष्टमोऽकम्पितः, (६) नवमोऽचलभाता, (१०) दशमो मेतार्यः, (११) एकादशः प्रभातश्चेति ।
__ क्रमश: एते नामानि द्विजाः प्रधानाः पण्डिताः सन्ति । एतेषां इन्द्रभूतिः १, अग्निभूतिः २, वायुभूतिः ३, नामानस्त्रयः सहोदराश्चतुर्दश विद्याविशारदाः साक्षराः सन्ति । (१) प्राद्यस्य श्रीइन्द्रभूतिनाम्न: पण्डितस्य 'जीवविषये संशयः' अर्थात् 'जीवोऽस्ति किं वा नेति ?' (२) द्वितीयस्य श्रीअग्निभूतिपण्डितस्य 'कर्मविषये संशयः' अर्थात् 'कर्मोऽस्ति कि वा नेति ?' (३) तृतीयस्य श्रीवायुभूति-नाम्नः पण्डितस्य 'तज्जीवतच्छरीरनितिविषये संशयः' अर्थात् 'तज्जोवेति कि तदेव शरीरं स एव जीवः किं वाऽन्यः' इति । न पुनर्जीवसत्तायां तस्य संशयः। (४) चतुर्थस्य श्रीव्यक्तनाम्नः पण्डितस्य 'भूतेषु संशयः' अर्थात् 'कि पृथिव्यादीनि पञ्च भूतानि सन्ति किं वा नेति ?'। (५) पञ्चमस्य श्रीसुधर्मानाम्नः पण्डितस्य 'यो यादृशः
(
४
)