SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रभुः तस्मिन्नेवावसरे मिलितेषु सुराऽसुरेषु भूमौ निष्फलां वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वा श्रपापापुर्यां महासेनवने जगाम । तत्र च वैशाख शुक्लैकादश्यां देवैः समागत्य नव्यं दिव्यं समवसरणं विरचितम् । तस्मिन् समवसरणे - शोकवृक्षाद्यष्टप्रातिहार्ययुक्तज्ञानातिशयादि चतुष्कातिशयसहितश्च ेति द्वादशगुणैः समलंकृतः पूर्वादिचतुष्दिशाया दिव्यसिंहासनोपरि विराजवन्तोऽर्हन् सर्वज्ञः श्रीमहावीर प्रभुः सर्वोत्कृष्टेन वर्त्तते । , तत्र समवसरणे इन्द्रादिदेवाः प्रभोः जयजयध्वनिभिः दिग्दिगन्तं स्फोटयन्तः दिव्यदुन्दुभिदमदमादिवाद्यैः प्राकाशं स्फोटयन्तश्च वाद्यमान शब्द कर्ण नोत्फुल्ल-नयनगगनावलोकनोपलब्ध सर्वदेववृन्दानां समूहैर्युताः गगन मार्गेण प्रभोः दर्शनार्थं तत्रागताः । तस्मिन्नेवावसरे तत्र यज्ञं कारयतः सोमिलनामकद्विजस्य गृहे बहवः याज्ञिकाऽग्रजन्मान: ब्राह्मणाः मिलिताः सन्ति । तं देवघोषं श्रुत्वा तत्र यज्ञपाटके मनुष्यास्तत्र तुष्टाः । अहो ! याज्ञिकैः इष्टाः देवा: किल श्रागता अत्रति । ५ संशयवन्ताः श्रीइन्द्रभूत्यादि एकादश द्विजाः तत्र चतुर्दशविद्याविशारदाः सर्वज्ञाटोपधारकाः महन्तो गुरुतराः सूर्धन्याः एकादशसङ्ख्यकाः द्विजाः निजविद्यार्थी ( ३ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy