SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ * प्रभोर्वीरस्य जन्म-दीक्षा-साधना च विश्ववन्द्यो विश्वविभुः श्रीसिद्धार्थनृपकुलदीपकस्त्रिशलादेवीनन्दनः काश्यपगोत्रीयः वर्तमानशासनाधिपतिश्चरमतीर्थङ्करो देवाधिदेवः श्रमण भगवान् श्री महावीरः, अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्द्ध भरते मध्यखण्डे सुप्रसिद्धभारतदेशीय-क्षत्रियकुण्डग्रामनगरे वर्तमानकालीन २५१३ वर्षतमे पूर्वे चैत्रशुक्ल त्रयोदश्यां तिथौ जन्माऽभूत् । तदनु त्रिंशद्तमे वर्षे मार्गशीर्ष (गुर्जरीय कात्तिक) कृष्णदशम्यां तिथौ गृहस्थावासं गृहस्थजीवनं च सर्वदा त्यक्त्वा पारमेश्वरी प्रव्रज्यां (दीक्षां) गृहाण । ___* केवलज्ञानोत्पत्तिः ॐ निजदीक्षादिनमारभ्य चतुर्थं मनःपर्यवज्ञानं प्राप्य सार्द्धद्वादशवर्षतमपर्यन्तं विविधप्रकारं विविधं तपं कृत्वा, तन्मध्ये प्रतिकलानुकलानेकोपसर्गान् समभावेन सहनं कृत्वा तथा ज्ञानावरणीयादिचतुष्कघातिकर्मणां घातं कृत्वैव वैशाखशुक्लदशम्यां तिथौ लोकालोकप्रकाशकं पञ्चमज्ञानं केवलज्ञान प्राप्तवन्तः । * समवसरणस्य रचना * तन्निमित्ताऽमरैः समवसरणस्य रचना कृता। तत्र ( २ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy