________________
स तादृशः विषये इति संशयः, अर्थात् 'कि यो जीवो यादृशः इह भवे सोऽन्यस्मिन्नपि भवे तादृश एव उतान्यथा ?' इति संशयः । ( ६ ) षष्ठस्य श्रीमण्डितनाम्नः पण्डितस्य 'बन्ध - दिषये संशय:, अर्थात् 'जीवस्य कर्मबन्धोऽस्ति किं वा नेति ? ' । ( ७ ) सप्तमस्य श्रीमौर्यपुत्रनाम्नः पण्डितस्य 'देवविषये' संशयः, अर्थात् 'देवोऽस्ति किं वा नेति ? ' । ( ८ ) अष्टमस्य श्रीग्रकम्पितनाम्नः पण्डितस्य 'नारकविषये ' संशयः, ग्रर्थात् 'नारक: (नैरयिकः ) अस्ति किं वा नेति ? | ( १ ) नवमस्य श्री अचल भ्रातानाम्नः पण्डितस्य 'पुण्यविषये' संशय:, अर्थात् 'पुण्योस्ति किं वा नेति ?' | ( १० ) दशमस्य श्रीमेतार्यनाम्नः पण्डितस्य 'परलोकविषये' संशयः, अर्थात् 'परलोकोऽस्ति किं वा नेति ?" । ( ११ ) एकादशमस्य श्रीप्रभासनाम्नः पण्डितस्य 'मोक्षविषये' संशयः, अर्थात् 'मोक्षोस्ति किं वा नेति ?' ।
इत्थं ते संशयवन्तेकादशाऽपि द्विजास्तत्रायाताः सन्ति । संशयवन्तस्ते द्विजाः सर्वज्ञत्वाभिमानप्रौढाः आसन् । तेषु एकैकमपि सति कोऽन्यः सर्वज्ञः एतादृशेन मिथ्याभिमानेन गर्वितः श्रासीत् । सर्वज्ञत्याभिमानक्षतिभयात् परस्परमपि न पृच्छन्तीति । एवमेते सर्वेऽपि निजछात्र परिवारैः सहिताः सन्ति ।
( ५ )