________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कुमारः प्रवक्ति -
कोऽति-भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ १४७ को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते स्वीयं गुणोपार्जितम् । यद् दंष्ट्रा-नख-लाल-प्रहरणः सिंहो वनं गाहते, तस्मिन्नेव हत-द्विपेन्द्रसलिले तृष्णां छिनत्त्यात्मनः ॥ १४८ जइ गुण हुइ तउ लब्भइ ठाणउं केण किओ केसरि वण-राणउ ।
अप्पउ अप्पह महिम चडावइ, हत्थी तूर किम दंडह आवइ । १४९ भार्या ब्रूते - एवं सत्यपि मम पितृ-गृहे प्रतिष्ठान-पुरे गम्यते तदा वरं । मम पिता तव राज्य-श्रियं दास्यति ।
यतः -
तुङ्गात्मनां तुङ्गतमाः समर्था मनोरथान् पुरयितुं न नीचाः ।
धाराधरा एव धराधराणां निदाघ-दाहोपशमे न नद्यः ॥ १५० इति श्रुत्वा कुमारः प्राह - नैवेयं वचनपद्धतिः सत्या ।
यतः -
वियलिय-कला-कलाओ चंदो सूरस्स मंडलं पत्तो । निस्सरिओ तारिसओ गय-विहवे को समुद्धरइ ॥ १५१ बज्झ ता कार झभेवि किरि चंद परवासइ लोइ । धण-हीणउ मित्ताण हरि मा जाइज्जउ कोइ ॥ १५२ गहणं कलंक-कुसणं डीणिम चंदिम ? हरणं कयंत चंदस्स ।
हरि-हर-धनंतरि बन्धवेहि कि होइ पक्नेणं ।। १५३ पुनः श्वशुरसमीपे न यामि यतः -
वरं मृत्युवरं भिक्षा वरं सेवाऽपि वैरिणाम् ।
दैवाद्विपदि जातायां श्वशुराभिगमो न तु ॥ १५४ तथाः -
उत्तमाः स्वगुणै ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः प्रोक्ताः श्वशुरैश्चाऽधमाधमाः ॥ १५५