________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
तावदेव पुमान् श्लाघ्यस्तावदेव गुणाश्रयः । नैव यावत् पर-मुखं प्रेक्ष्यते स्वात्मनः कृते ।। १५६ जिणि दिणि पर-मुह जोईइ छंडिवि निअ-विवसाउ ।
सो दिवसउ मत उग्गमउ निसि-उच्छउ म विहाउ ॥ १५७
स पुनश्चिन्तयति-अस्या वचनं प्रमाणं भवतु, यत इमां सावलिङ्गी पितृ-गृहे मुक्त्वाऽहं मुत्कल-पादः स्वेच्छया पृथिवीं विलोकयामि ।।
यतः -
विद्या वित्तं शिल्पं तावन्नाप्नोति मानवो नूनम् । यावद् भ्रमति न भूमौ देशाद्दे देशान्तरं हृष्टः ॥ १५८ नानाश्चर्यमयीं पृथ्वी यो न पश्यति भारत ।
निज-पत्याग्रहात्-कानि कौतुकानि स वक्ष्यति ॥ १५९
इति विमृश्य प्रतिष्ठान-पुर-मार्गे चचाल । सदयो गच्छंश्चिन्तयति च-या सावलिङ्गी प्राक् सुखासनं विना नाचालीत् साऽधुना पाद-चारेण चलति । पूर्वे मेघा मनस्विन्या मुखमपि नावलोकयन्त, अधुना तातस्य रोषणे च स्व करैः सूर्यस्तां ताडयति । ईदृशे कष्टेऽस्याः कीद्दशी मुखच्छायेति विलोकनायेव रविः सम्मुखोऽभूत । अनया हन्त पूर्वं पाटल-शीकर-वासिततुषारोपम-जलैस्तृष्णा मूलतोऽप्युच्छेदिता तदीर्ध्या-रुष्टा पिपासा स्वावसरं प्राप्यैनां पीडयतीव मार्गे क्षार-भूमिमये छाया-जल-रहिते रण्ण । आगते सावलिंगी तृषाक्रान्ताऽपि पति दुःखभवन-शङ्कया जलं न मार्गयति, परं प्रकारान्तरेण पृच्छति,
सावलिङ्गी-सामि कुरंगा रण्ण-थलि जल-विणु किम जीवंति ।
सदय : - हीउ सरोवर प्रेम-जल नयणें नीर पीयंति । १६० सदयस्तच्चित्तज्ञः प्राह-किं तव तृड् बाधते । साऽऽह-बाढं । इति श्रुत्वा चिन्तयति सः
निव-धूया सुकुमारा तिण्हा-छुह-पीडिआ-निविड-तावे
चंकमणं चरणेहिं ही ही विहिविलसिअं विसमं ॥ १६१
नूनं शफरीव जलाभावे इयं मरिष्यति । ततो जलं विलोकयामि । तावदग्रे दूर एकां प्रपां पश्यति । शीतल -जल-भृतकलश-पूर्णा वृद्धा स्त्री प्रपापूरिका (? पालिका) । ततस्तां दृष्ट्वा सन् दयिः तत्रैव मुक्त्वाऽग्रे शीघ्रं गत्वा जोत्कार-पूर्वं मातर्मे जलं देहि । मम भार्या तृषाक्रान्ता मार्गे पतिताऽस्ति ! वृद्धाऽऽह- देवी-हरसिद्धेः प्रपेयं । अत्र पुण्यं च पापं च सममेव । कुमारः पृच्छति- कथं । वृद्धा वदति-वत्स योऽत्र यावत्-प्रमाणं स्वरुधिरं प्रयच्छति