________________
१७
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
तीर्थानामष्टषष्टिा प्रोक्ता स्मृतिषु भारत । तेषु भागीरथी श्रेष्ठा ततोऽपि जननी मता ॥ १११ अष्टपष्टिश्च तीर्थानि त्रयस्त्रिंशच्च देवताः ।
षडशीति-सहस्त्राणि मातुः पादे वसन्ति च ॥ ११२ व्यासेनाप्युक्तं
वासु महारिसि इहु भणइ, जइ सुइ-सत्थु पमाणु ।
मायह चलण मंताहं, दिवि दिवि गंगा-न्हाणु ॥ ११३
अतस्त्वं पूज्याऽत्रैव तिष्ठ । विदेश-भ्रमण-भू-शयन-पाद-सञ्चरणादि दुःखं मम साध मा सहस्व । तव सार्धं ममाऽपि पाद-बन्धन-दुःखमिति पर्यवसाय सा संस्थापिता । परं मनसि पीडिता वक्ति - वत्स
इक्केण विणा पियमाणसेण सब्भाव-नेह-सहिएणा ।
जण-संकुला वि पुहवी पुत्तय सुत्र व्व पडिहाइ ॥ ११४ ततो मात्रा प्रत्यूषे कुमारः प्रातराशं कारितः ।
यतः
सुधा-मधु-ज्योत्सना-मृद्वी ? [कादिभ्यः] शर्करादपि ।
वेधसा सारमुद्धृत्य विहितं जननी-मनः ॥ ११५ मङ्गलार्थमखण्ड-तर-सहितं दधि भोजितं । कर्पूर-पूर-चूर्णादि-युतं पत्र-बीटकं ददौ । मातरं प्रति प्रणामं [कृत्वा] वधू-सारा-करणं चऽतिदिश्य यावन् निर्गतस्तावता पत्नी पतिमन्वेव निर्गता । कुमारेण च वारिताऽपि । सुकुलीना सा कथयति-कुलस्त्रियः प्राणाः पत्यधीनाः । देशान्तरे गते जीवन्त्यपि मृता। लोकान्तरे तु पत्यौ अनुम्रियते। नो चेच्छृङ्गारादि मुञ्चति । उच्यते तथा -
शशिना सह याति कौमुदी,सह मेघेन तडिद्विलीयते ।
प्रमदाः पति-वर्मगा इति, प्रतियत्नं हि विचेतनैरपि ।। ११६ पुनः
नर-पाखइ नारी-तणइ लागइ कोडि कलंक। आगइ एक मई सासहिउं मुखि ...**...** ॥ ११७ माय-बाप-बंधव-बहिन मोटी पीहर-वेडि। सहकारणिइं परिहरी कंत न मूकउं केडि ॥ ११८ जे सुर-नर-साखिइं करी बापिइं बंधाविउ [देह] ॥ सावलिंगि ते इम भणइ ते किम छूटइ छेह ॥ ११९