________________
१६
हर्षवर्धन - गणि-कृतं सदयवत्स - कथानकम्
माणि पणट्ठइ जइ न तणु तो देसडा चइज्ज । मा दुज्जण-कर- पल्लविहिं देसिज्जंतु भमिज्ज ॥ १०५ परं विषादभाङ् ना भूत् ।
यतः
सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १०६ ॥
-
तत्स्वरुपं मन्त्रिणश्चेष्टितं च मातुरग्रेऽकथयत । माता पुत्र- विदेश गमन - वार्तया पीडिताऽश्रुपूर्णनेत्रमाह - वत्स त्वं राजानं पादयोः पतित्वा प्रसादय । यतः उत्तमानां कोपः प्रणामान्तो भवति । कुमारो वक्ति- मातरहं प्रसादयामि परं तथापि न प्रसादं यास्यति ।
यतः
निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणाद् द्वेष - परो हि योऽत्र कथं नरोऽसौ परितोषमेति ॥ १०७
मात्रोचे - वत्स सत्यं वक्षि |
जलधेरपि कल्लोलाश्चापलानि कपेरपि ।
शक्यन्ते यत्नतो रोद्धुं न पुनः प्रभु-चेतसम् ॥ १०८
अहं किञ्चित् कथयित्वा विलोकयामि । ततः सा राजानमेकान्ते वक्ति - देव एकोऽपराधः सुतस्य सोढव्यः ।
यतः
दोषेणैकेन न त्याज्यः सेवकः सुगुणाधिपैः ।
धूम - दोष- भयाद् वह्निः किमु केनाप्यपास्यते ॥ १०९
इत्यादिबहूक्तेऽपि नाऽमन्यन राजा तद्वचनं । ततः सा प्राह-दे . यदेवं प्रागल्भ्येन नार्हत्येव वक्तुं महिलाजनः। स्त्रियो हि सविनया अल्प - भाषिण्यः सलज्जा परं शोभन्ते, धार्यं तु तासां वचनीयतामेव वहति, परमतीवार्त्तागृहीतयैवैवमभिहितं मया । एवमुक्त्वा निर्गता । तत: कुमारं प्रत्यम्बा कथयति-यदि त्वं यास्यसि तदाहमपि सार्धमागमिष्यामी इति वदन्ती कुमारेण वारितापि न तिष्ठति वक्ति च
महिलाण होइ सरणं पई व पुत्तो व जीवलोगम्मि । पइ - पुत्त - विरहियाओ, **..**...** ॥ ११०
पुत्र आह- अहं शीघ्रमागत्य तीर्थमिव तव पादौ निश्चयेन नमस्करिष्यामि ।
यतः