________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
___ अतः कठोर वचनं ब्रवीमि । हे राजन् ! सकल-राज्य-सारो जयमङ्गलो गजः । सोऽपि कुमारेणैक-स्त्री-मात्र-कृते हतः , त्वं तु तस्यापि कुमारस्य मानं ददासि । कोपं-करण स्थाने यौवराज्य-पदं दत्से । वैरि-जयोऽनेनैव गजेन । यतः
स सुधीर्यस्य भूमिः स्याद् यस्याश्वास्तस्य मेदिनी ।
विजयी यस्य मातङ्गा यस्य दुर्गः स दुर्जयः ॥ ९९
ईदग् गज-रत्नं चतुरङ्ग-चमू-मण्डनम्, अतः परं तेषां वैरिणां गृहेषूत्सवा भवन्तः सन्ति । देव स गजः कुत्रत्यो योऽवसरेऽवसरे मद-मत्तो न भवति । परमेवंविधं गज-रत्नं यत्र तत्र किं तिष्ठति । विपुल-भाग्यवतामेव गृहे तिष्ठति । एवमल्पे कार्येऽस्य हनने का युक्तिः । परं विनाशकाले विपरीतबुद्धिर्भवति ।
यतः -
न निर्मिता कैर्न च दृष्ट-पूर्वा । न श्रूयते हेममयी कुरङ्गी ।
तथापि तृष्णा रघु-नन्दनस्य विनाश-काले विपरीत-बुद्धिः ॥१०० इत्यादिवचनं ब्रुवति सूचीतस्तथा कर्णे पीडितो यथाऽति-कर्ण दुर्बलत्वेन राजा तद्वचन-पद्धति सत्यामेव मन्यमानः क्रुद्धः कुमारस्य देश-निष्कासनमादिशति ।
यतः
दुर्बल-कन्ना वंक-मुहा खंधग्गला स-रोस जेता गुण तुरंगमह तेता माणस-दोस ॥ १०१ अ-कर्ण-दुर्बलः शूरः कृतज्ञः सात्विको गुणी । वदान्यो गुणरागी च प्रभुः पुण्येन चाऽऽप्यते ॥ १०२
अथवा पाषाण-जाल-कठिनोऽपि गिरिविशाल: सम्पिद्यते प्रति-निशं वहता जलेन । कर्णोपजाप-वचनैः परिपीड्यमानः
को वा न याति विकृति दृढ-सौहदोऽपि ॥ १०३ प्रातः कुमारं प्रति राजाऽऽह - अरे ! गज-रत्नमानय । नो चेत्-त्यज मे देशं । कुमारः प्रोचे ओम इत्युक्त्वा प्रणम्य च निर्गत: सभामध्यात्तदैव । तेजस्वी तर्जनं न सहते । चिन्तितवांश्च।
देशान्तर दिद्दक्षाऽपि पूर्यतां मम संम्प्रति । भूपतिरपि जानातु स्वसूनो....भिमतम् ॥ १०४