________________
१४
तथा च
हर्षवर्धन - गणि-कृतं सदयवत्स-कथानकम्
वहेदमित्रं स्कन्धेन यावत् काल - विपर्यय: आगते तु निजे जाले भिन्द्याद् घट मिवाश्मनि ॥ ९१
जिम जिम केसरी पाय उहट्ठइ जिम जिम विसहर नउली वट्टइ । दीण - वयण जइ जंपइ सूरउ ते उ डबक्कउ देसिइ पूरउ ॥ ९२ तेनाधुना मम दिवसो रुष्ट इव दृश्यते ।
यतः
दीहा रुट्ठा तं करइ जं वइरी न करंति
दीह पलट्टइ रावणह पत्थर नीरि तरंति ॥ ९३
भवतु । परं संजातमपि राज-मानं टालयामि निज- बुद्धया ।
यतः
यतः
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ९४ कथा प्रसिद्धा एतावता स्वबुद्धि-वैभवात्- कुमार निष्कासनोपायो दृष्टस्तेन ।
अति-मलिने कर्तव्ये भवति खलानामतीव - निपुणा धीः । तिमिरेऽपि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ ९५
ततो माष-पूरितं लोह-स्थालं स्थापितोपरि-प्रौढेङ्गालकं कृष्ण-दुकूल-युगल-सहितं राज्ञ उपदीचकार मन्त्री । तदपूर्वं दृष्ट्वा राजाऽप्राक्षीत् मन्त्रिन् किमतत् । स आह- देव एते लोका उपदाः कुर्वीत । ततोऽहमपि तामकार्षम् । राज्ञोचे - ईद्दक् प्राभृतकं क्वाऽपि न दृष्टं । मन्त्री प्राह-हे राजन् तवाधुनेद्दगेव प्राभृतं विलोक्यते । राजाऽऽह - कस्मात् । मन्त्री वक्ति
वैद्य गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदः । शरीर - धर्म - कोशेभ्यः क्षिप्रं स परिहीयते ॥ ९६
सुलभाः पुरुषा राजन, सततं प्रिय वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ९७ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये तु नाम- धारकाः ॥ ९८