________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
१३
नगरं स्वस्थं बभूव । राजाऽप्युरु पुरोपद्रव-निवर्तना द्धृष्टः सन् कुमारं सच्चक्रे । पुर- जनोऽपि कुमार- पौरुष-गुण-हृष्ट: कुमार- सहितं राजानं मौक्तिक- हारादिभिर्भेटनक प्रदानेन प्रपूजयति । ततो विशेषेण पुत्रस्य सन्मानं करोति नृपः । ततो ज्योतिर्वित् कारागृहान्निष्कारय प्रपूजितः । तञ्ज्ञान चमत्कृतेन राज्ञा ग्रामादि-दान प्रदानेन संतोषितः
यतः
मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय दुःखम् ।
कीर्तिं च दिक्षु वितनोति ददाति लक्ष्मीं, किं किं न साधयति कल्पलतेव विद्या ॥ ८७ ॥
कन्या- जीवित-दान- हृष्टास्तन्मातृ पक्ष- सम्बन्धिनो विप्र-जना एकावली - हारादिना तत्कुमारं वर्धापनं कृत्वा प्रपूजयन्ति । सा बाला तु स्व-हस्तेन शेषां भृत्वा तिलकं चकर्ष मौक्तिकाक्षतपात्रेण वर्धापयति च कुमारं । तदनन्तरं राजा तदैव कुमारे युवराज-पदं दत्त्वा सुखेन राज्यं करोति । इतश्च मन्त्रीश्वरश्चिन्तयति-यदि कुमारस्येयन्मानं राज्ञोबभूव तदा मम सूत्रं विनष्टं । यतो मयाऽयं पूर्वं पाणिग्रहणा - वसरे धन-मार्गणानर्पणतः कोपितोऽपमानितोऽस्ति । ततोऽधुना तद्वैर निर्यासनं करिष्यति ।
यतः
यतः
घातः शुन इवाज्ञस्य - विस्मर्येत क्रमान्तरे । सिंहस्येव न वीरस्य कदापि पर-सम्भवः ॥ ८८
तथा च
-
प्रियं वा विप्रियं वापि सविशेषं परार्पितम् । 'प्रत्यर्पयन्ति के नात्र दृष्टान्त उर्वरा खलु ॥८९
अतोऽयं प्रसन्नोपेक्षणीयः ।
-
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यथेच्छया ।
रोगं वाऽऽलस्य- संयुक्तः स शनैस्तेन हन्यते ॥९०
तथा चाटु-वचस्तया ममापराध इयन्ति दिनान्यनेन स्वभिरक्षितो बहुवालनाय यतोऽसौ राजनीतिवेत्ता ।
यथाः