SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम आपत्काले हि संप्राप्ते यन् मित्रं मित्रमेव तत् । वृद्धि-काले तु संप्राप्से दुर्जनोऽपि सुहृद् भवेत् ॥ १२० सा सती या हिया भर्तुः सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण, प्रतीपेऽस्मिन् पुरो भवेत् ॥ १२१ सरसीव पयः पूर्णे, **..** समं भवेत् । नैःस्वै स्व-परयोर्भेदः शुष्केऽस्मिन् मुञ्चतीव यत् ॥ १२२ । पङ्गुमन्धं च कुब्जं च कुष्ठाङ्गं व्याधि-पीडितम् । आपत्सु विगतं नाथं न त्यजेत् सा महासती ॥ १२३ इति तदुक्ति-युक्तिं श्रुत्वा कुमारः पुनरुवाच - अहं गिरिकन्दरारण्यानिषु भ्रमिष्यामि त्वं तु कथं भ्रमिष्यसि । साऽऽह । वल्लभ देहस्य छाया किमन्यत्र तिष्ठति तथाऽहमपि । तथा चोक्तं - रणं पि होइ वसियं जत्थ हियय-वल्लहो जणो वसइ । पिय-रहियाणं वसियं पि होइ अडवीइ सारिच्छं । १२४ ततस्तस्याः सार्थागमन-निश्चयं निशम्य सार्थेन चालनायानुमेने कुमारः । ततः सावलिङ्गी श्वश्रू प्रति-हे मातः ! कदाचित्त्यक्त वधू-धर्मो ममापराधो मर्षणीय इत्यभिधाय पादयोः पपात । ततश्च पत्यनुगमनायाऽनुमन्यस्वेति मुत्कलाप्य पत्या सार्धं चचाल । सवधूक-कुमार-चलनानन्तरं माता - हियडा फाटि पसाउ करि जीविय काई करेसि । पिय-माणुस-विच्छोहियां, केतां दुक्ख सहेसि ॥ १२५ इत्यादि वारं वारं रोदिति । क्रमेण सखीभिर्वारिता च । कुमार सम्प्रेषणायाऽनुगच्छन्तः स्वजनाः प्रोचुः-अहो दुरात्मना मन्त्रिणा कीद्दक् चेष्टितं । यतः - पात्रमपात्रं कुरुते, दहति गुणान् स्नेहमाशु नाशयति । अमले मलं प्रयच्छति दीप-ज्वालेव खल-प्रकृतिः ॥१२६ केऽप्याहू राजा कथमेवं निष्कासनं करोति । केऽप्याहुः आयुषो राजचित्तस्य, पिशुनस्य धनस्य च । खलस्नेहस्य *** नाऽस्ति कालो विकुर्वतः ॥ १२७
SR No.002290
Book TitleSadyavatsa Kathanakam
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherParshwa International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy