________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
दग्धं खाण्डवमर्जुनेन विपिनं दिव्यद्रुमैर्वासितं दग्धा रावण पालिता हनुमता दिव्या च लङ्कापुरी । दग्धः पञ्चशरः पिनाकपतिना लोकत्रयी-वल्लभो दारिद्रं जन-दुःख-दायि यदि नो दग्धं तदा किं कृतम् ॥ ५४ जाई विज्जा रूवं तिन्नि-वि निवडंतु कंदरा-विवरे ।
इक्को-वि हवउ अत्थो जेण गुणा पायडा हुंति ॥ ५५ ।। इत्यादि-प्रकारै दैवोपालम्भान् सृजति । एकदा तद्भार्यया प्रोक्तम्-स्वामिन् तव विद्याः कस्मिन्नर्थे समेष्यन्ति । विद्याभिः सर्वत्र पुष्कलानि धनानि प्राप्यन्ते ।
__यतः
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ ५६ अतोऽहं ब्रवीमि विद्याहीनः पुरुषः पशुरेव । यतः
आहार-निद्रा-भय-मैथुनानि सामान्यमेतत् पशुभिर्नराणाम् ।
ज्ञानं विशेषः खलु मानुषाणां ज्ञानेन हीनाः पशवो मनुष्याः ॥५७ अतोऽहं ब्रवीमि-त्वमियद्विद्यापारङ्गतोऽपि किमेवं दारिद्य-पीडां विषहसे ।
विज्जा-धणू जेहि घरि, ताह अहीणुं काई ।
नितु दूडइ नितु दूडिसि, इवि सूकिसि मुआइ ॥५८ विप्रेणोक्तम्-प्रिये, त्वं सत्यं ब्रूषे, परंहं किं करोमि व गच्छामि । बह्मनयनेऽपि गृहं दुष्पूरम् । सा वक्ति -नाथ गृहं कदापि किं पूर्णं भवति । यतः
अग्निविप्रो यमो राजा समुद्र उदरं गृहम् ।
सप्तैतानि न पूर्यन्ते पूर्यमाणानि नित्यशः ॥ ५९
ततो भार्याऽब्रवीत्-अस्मिन् पुरे दाने कर्ण-समो नृपतिविद्यावद्दारिद्रा चूर्णीकरोति । - तत्र गत्वा तं द्रव्यं मार्गय । यतो ब्राह्मणानां याचनं न लज्जाकारि । कोटीश्वरोऽपि याचमानो
न लज्जते विप्रजनः ।