________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
द्यूतं यो यम दूताभं हालां हालाहलोपमाम् । । पश्येद् दारान् यथाऽङ्गारान् स भवेद् राज-वल्लभः ॥ ४६ प्रोक्तः प्रत्युत्तरं नाह विरुद्ध प्रभुणा च यः ।
न समीपे हसत्युच्चैः स भवेद् राज-वल्लभः ॥४७ ततोऽस्य माता तं शिक्षयति-वत्स पितुः सम्मुखमुत्तरं न दीयते ।
यतः
पढम चिय गुरु-वयणं मम्मुर जलणु व्व दहइ भण्णंतं । परिमाणे पुण तच्चिय मुणाल-दल-सीयलं होइ ॥ ४८ किं बहुणा विणओ च्चिय अ-मूल-मंतं जए वसीकरणं ।
इह-लोय पार-लोइय-सुहाण मण-वंछिय-फलाणं ॥ ४९ तथा च -
अर्थ-पतौ भूमि-पतौ बाले वृद्धे तपोऽधिके विदुषि । योषिति मूर्खे गुरुषु विदुषा नैवोत्तरं देयम् ॥५० मातृ-पित्रातुराचार्यातिथि-भ्रातृ-तपोधनैः । वृद्ध-बालाबला वैद्यापत्य दायाद-किंकरैः ॥ ५१ स्वसृ-संश्रित-सम्बन्धि-वयस्यैः सार्धमन्वहम् ।
वाग्-वग्रहमकुर्वाणो विजयेत जगत्-त्रयीम् ॥ ५२ ॥ ततो मुख्य-सौधाद् बहिः स्थितः सभार्यः तदा तन्माताऽपि सुत-निष्कासन-दूना तत्पार्श्व एवास्थात् । वधू-पुत्र-सहितायास्तस्य राजा व्ययं पूरयति । कुमारो नगर-मध्य द्यूतादिस्थानेषु रमते। व्यसनं कस्य सुत्यजम् । हारितं धनमिभ्येभ्यो मार्गयित्वा ददाति । तेऽपि च बहु-प्रत्यर्पण-वाक्येन राजकुमारत्वेन पश्चादप्यस्यैव राज्य-सम्भावन-सेव्यतया च ददन्ति । दत्तं धनं चटति तदा चटतु नो चेत् तदा यात्विति दीर्घसूत्रिणः प्रयच्छन्ति तस्मै । यतः
स्वामी सम्भावितैश्वर्यः सेव्य-गुणान्वितः स च ।
सुक्षेत्र-बीजवत् कालान्तरेऽपि स्यान्न निष्फलः ॥ ५३ एवं समाधिमतोऽस्य दिनानि व्रजन्ति । इतश्च तत्र पुरे कोऽपि विप्रो महादेव-नामा ज्योतिर्विद्याविदां मुख्यः कर्मवशाद् दारिद्येण पीडितोऽस्ति ।