________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
यतः
विप्रेष्वाजीविका सृष्टा दानि-दानेन वेधसा ।
तेन तद्ग्रहणे नैव लज्जते ब्राह्मणो नृप ॥ ६० तथा च
स्वप्नेऽपि याचमानो विप्र-जनो भ्रमति भूतले सततम् ।
यो यत्करणे रसिकः प्रायः स्वप्नेऽपि तत् कुरुते ॥ ६१ विप्रः प्राह – तत्र गमनेन किं ।
यतः -
विकटाटव्यामटनं शैलारोहणमपांनिधेस्तरणम् ।
क्रियते गुहाप्रवेशो पिहितादधिकं कुतस्तपि ॥ ६२ पुनः सा प्राह -
उद्योगिनं पुरुष सिंहभुपैति लक्ष्मीद् दैवं हि दैवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।। ६३ इत्यादिवाक्यैस्तत्प्रेरितः स राज-सभां गतो नव-ग्रहाणामाशीर्वादमदात् ।
यथा
मार्तण्डस्तारानाथः क्षोणीसूनुस्तनुश्चेन्दोर्वागीशो दैत्याचार्यच्छयापुत्रो राहुः केतुर्नक्षत्रैरश्विन्यायैस्तारा सङ्गैः स्वामि-युक्तैः कल्याणं वो नित्यारोग्यं लक्ष्मीमायुः कुर्वन्तु ।
ततो राज्ञा पृष्टः - कुतो देशात् समागता यूयम् । स आह - अत्रैव पुरे वसन्नस्मि। पुननृपतिराह—इयन्ति दिनानि । नाजग्मुर्भवन्तः ।
विप्रोऽवदत्-न-स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता । छायेव निज-देहस्य, लङध्यन्ते जातु नो नरैः ॥ ६४ कर्मणामर्गला लग्ना पापमद्य क्षयं गतम् ॥
भाग्येन दर्शनं जातं तवाद्यैव महीपते ॥ ६५ पुनः प्रोवाच राजा - द्विजराज मम किं दूषणम् । विप्रः प्राह- देव तव कि दूषणम् ।
यतः -
नोलूकोऽथ विलोकते यदि दिवा सूर्यस्य किं दूषणम् पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किम् ।
2