________________
(४२) "नि गौ निलया"। न. न. न. गु.। नगणत्रयं गुरुरेकश्च । . ।। ।।..लक्षणमेतत् ।
सरलार्थः-यत्र प्रत्येकपादे क्रमशः नगणत्रयोत्तरमेको गुरुवर्णः स्थाप्यते सा निलया नाम्ना प्रसिद्धा भवति । लक्षणपदे नकारोत्तरमिकारेण तृतीया संख्या बोधव्या यतः मातृकाशिक्षणे अ आ इ ई इत्यादाविकारस्तृतीयस्थाने भवति । निश्च गश्च इत्यनयोरितरेतरयोगः द्वन्द्वः ।
उदाहरणम्अपि सरिदाधिपतिसुता, हरिमपि परिहरति यत् । अधमपुरुषकृतरति, धिगदृहकमलनिलयाम् ॥छ.।।
अथ त्रिष्टुप् प्रकरणम् २०२८ भेदा भवन्त्यत्र । त्रिष्टुभिः सर्वस्मिन् भेदे ११ एकादशवर्णा भवन्ति । अथ अत्र प्रथमो भेद इन्द्रवज्रा दर्श्यते--
(४३) "स्यादिन्द्रवजा यदि तौ जगौ गः" । त. त. ज. गु. गु.। ssi. ssI. IsI. s. s. । लक्षणमिदम् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः तगणद्वयानन्तरं जगणो
छन्दोरत्नमाला-७०