________________
अथवातरणिजा तटे विहारिणी ,
व्रजविलासिनी विलासतः । मुररिपोस्तनुः पुनातु वः,
सुकृतशालिनां मनोरमा ।।
।
(४१) “तो जौ गुरुणे यमुपस्थिता"। त. ज. ज. गु.। 5. IsI. IsI. S. । लक्षणमेतत् । _____ सरलार्थः-यत्र प्रत्येकचरणे क्रमात् तगण जगण जगणोत्तरमेको गुरुवर्णश्च विद्यते तदुपस्थितानामकं छन्दः कथ्यते। ३६५ तमोऽयं भेदः ।
उदाहरणम्. एषा भवतः समराङ्गणे ,
राजन् ! जयसिद्धिरुपस्थिता । कीतिः कुपितेव भवप्रिया ,
सद्योऽभिसस्तर दिगन्तरम् ।। छ. ।।
प्रथवाएषा जगदेकमनोहरा ,
कन्या कनकोज्ज्वल दीधितिः । लक्ष्मीरिव दानवसूदनं
पुण्यैर्नरनाथमुपस्थिता ॥
छन्दोरत्नमाला-६९