________________
(३२) बृहत्याः ६४ चतुष्षष्टितमो भेदः"भुजगशिशुभृता नौ मः"। न. न. म. । ... ऽऽऽ. । लक्षणमिदम् ।
___ सरलार्थः-यस्य प्रतिचरणं क्रमशः नगणद्वयं तदुत्तरं मगणो भवति तस्य भुजगशिशुभृतां नाम कथ्यते । उदाहरणम्
नयनविलसितैरस्याः, कथमिव वत मूर्छा ते ।
भुजगशिशुभृता यद्वाऽवगतमुरगकन्येयम् ।। अथवा
हृदतटनिकटक्षोणी-भुजगशिशुभृता याऽसीत् । मुररिपुदलिते नागे, व्रजजनसुखदासाऽभूत् ।।
(३३) "मः सौ कनकम्"। म. स. स.। sss. ॥5. IIs. । लक्षणमेतत् । ___सरलार्थः-यत्र प्रतिपादं मगणोत्तरं सगणद्वयं भवति तत् कनकनामकं छन्दः कथ्यते । उदाहरणम्मिथ्यादर्शनदिग्धमनाः, पापं धर्मधिया मनुते । गाढोन्मत रसान्धदृशां, मृतपिण्डोऽप्यथ वा कनकम् ।।छ.।।
छन्दोरत्नमाला-६३