________________
( २८ ) " रजौ गौ सिहलेखा" । लक्षणमेतत् । sis.
।ऽ। ऽऽ. ।
सरलार्थ:-यत्र प्रतिपादं क्रमशः रगणो जगरणस्तदुत्तरं गुरुवर्णद्वयं तिष्ठति सा सिंहलेखा भवति ।
उदाहरणम्
पर्णपात्रमात्रभीत !
कृष्णसारपोत तात ।
किं विलम्बसे महात्मन्, त्वं जहीहि सिंहलेखाम् ।।छ. ।।
यदन्यत्" । लक्षणमेतद्
( २ ) " वितानमाभ्यां
वितानछन्दसः ।
सरलार्थः - समानिका प्रमाणिकाभ्यां भिन्नं वितानसंज्ञकं छन्दो भवति । अन्यपदेनात्र अलक्षित छन्दोऽतिरिक्तमनुष्टुब्जातीयमनेकविधमूह्यम् ।
उदाहरणम्
त्वयि तेजोभिरशेषं जगदुद्योतयतीदम् । उदयत्येष इदानीं सवितानाथो मुधैव ॥ छ. ।।
अथ वृहती भेदा द्वादशाधिकपञ्चशतम् [ ५१२] । नवाक्षरपादिका एव सर्वा वृहती भवतीति विज्ञेयम् ।
छन्दोरत्नमाला - ६१