________________
(२७) "प्रमारिणका जरौ लगौ"। लक्षणमिदम् । ज. र. ल. ग. [1s1. sis. I. s.] ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः जगणो रगणस्तदुत्तरं लघुगुरुश्च वर्णो भवति सा प्रमाणिका कथ्यते ।
उदाहरणम्तव प्रभातुमिच्छतां, यशश्चुलुक्य भूपते । समग्रमानजित्वरी, जगत्त्रयी प्रमाण्यभूत् ।। छ. ।।
अथवा
पुनातु भक्तिरच्युता, सदाऽच्युताङ्घ्रिपद्मयोः । श्रुतिस्मृतिप्रमाणिका, भवाम्बुराशितारिका ॥ . टिप्पणी-अस्याः श्रुतनगस्वरूपिणी नाम निर्दिष्टमस्ति । यथा
द्वितुर्यषष्ठमष्टमं, गुरुप्रयोजितं यदा । तदा निवेदयन्ति तां, बुधा नगस्वरूपिणीम् ।।
उदाहरणम्
नमामि भक्तवत्सलं, कृपालुशीलकोमलम् । भजामि ते पदाम्बुजं, अकामिनां स्वधामदम् ।।
छन्दोरत्नमाला-६०