________________
उदाहरणम्सत्यं रम्याः भोगाः भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्तु प्राज्ञा यस्माद्, आयुर्विद्युन्माला लोलम् ॥ छ. ।। अत्र श्रुतबोधःसर्वे वर्णा दीर्घा यस्यां, विश्रामः स्याद् वेदैवॆदैः । विद्वद्वन्दैर्वीणावाणि - व्याख्याता सा विद्युन्माला ।।
उदाहरणम्विद्युन्माला लोलान् भोगान्, मुक्त्वा युक्तौ यत्नं कुर्यात् । ध्यानोत्पन्नं निःसामान्यं, सौख्यं भोक्तु यद्याकाङ्क्षत् ।।
(२३) "त्रौ ल्गौ नाराचम्"। लक्षणमेतत् ।
सरलार्थः-यत्र क्रमशः प्रतिचरणं तगण-रगणौ लघु • गुरु च स्तः तन्नाराचनामकं छन्दः कथ्यते ।
उदाहरणम्दुर्वारवैरिदन्तिनां, कुम्भस्थलेषु निश्चलः । त्वत् कोत्तिकेतुवंशवत् - नाराच एष शोभते ।।
(२४) “माणवकं भात्तलगाः"। लक्षणमेतत् । अनुष्टुभः शततमोऽयं भेदः ।
छन्दोरत्नमाला-५७