SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अनुष्टुप् छन्दः अथानुष्टुप् प्रकरणम्-प्रस्तारक्रमेणानुष्टुभो भेदाः २५६ भवन्ति । अष्टवर्णपादात्मकमिदं छन्दः । (२१) “भौ गीति चित्रपदा" । लक्षणमिदम् । सरलार्थः-भ. भ. गु. गु. = यत्र प्रतिपादं भगणद्वयं द्वौ गुरूवौँ च भवतस्तच्चित्रपदानामकमनुष्टुप् छन्दो भवति । पञ्च पञ्चाशत्तमोऽयं भेदः । उदाहरणम्व्योमनि सागरतीरे, पर्वतशृङ्गनिकुञ्ज । ' भ्राम्यति भीमकुलेन्दो, चित्रपदा तव कीत्तिः ।। छ. ।। अथवा यस्य मुखे प्रियवाणी, चेतसि सज्जनता च । चित्रपदाऽपि च लक्ष्मीः तं पुरुषं न जहाति ।। (२२) "मो मो गो गो विद्युन्माला"। लक्षणमिदम् । सरलार्थः-म. म. गु. गु. अर्थात् यत्र प्रतिपादं क्रमशः मगणद्वयं गुरुवर्णद्वयञ्च भवति सा विद्युन्माला कथ्यते । चतुर्षु चतुर्षु यतिस्तत्र जायते । छन्दोरत्नमाला-५६
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy