________________
सरलार्थः-यत्र प्रतिचरणं क्रमशो जगण (11)सगणौ [15]-त्तरमेको गुरुवर्णः=[s] तिष्ठति तल्ललितानामकं छन्दो भवति । उदाहरणम
नरेन्द्रगणसेना-वृतः पथिकशक्तिः । दधासि नृपते त्वं, कुमारललितानि ।। छ. ।। (१९) "सरगर्हसमाला" । लक्षणपदमिति ।
सरलार्थः-यस्मिन् प्रतिपादं सगणो [s] रगणो [15] गुरु [s] रेकश्च तिष्ठति सा हंसमाला कथ्यते।। उदाहरणम्
शैवलानि निराशा, पङ्कजे बद्धवासा। किं वकोटावलीयं, हन्त सा हंसमाला ॥ छ. ।। (२०) "त्सौ गो भ्रमरमाला"। लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः तगणः (ss1) सगण (15)-स्तत एको गुरुवर्णो (5) भवेत् तद् भ्रमरमालानामकं छन्दः कथ्यते । उदाहरणम्
कुन्दे विकसिते वा, मन्दारकुसुमे वा। प्रीत्या मधुरसाढय, भ्रान्ता भ्रमरमाला ।। छ. ।।
छन्दोरत्नमाला-५५