________________
(१६) “म्यौ सुनन्दा"। लक्षणपदमेतत् ।
सरलार्थः-यस्य प्रतिपादं मगण (sss)-यगणों (Iss) स्तः तत् सुनन्दानामकं छन्दो भवति ।
उदाहरणम्
श्रीमत् पार्श्वनाथ !, त्वत् पादाब्जयुग्मे । भूयानिर्विकल्पा, भक्तिर्मे सुनन्दा ।।
अथ सप्ताक्षरकं छन्दःअत्र उण्णिग् जातिभेदाः प्रदर्श्यते । सप्ताक्षरमेतद् भवति प्रस्तारक्रमेणोण्णिहो १२८ भेदा जायन्ते ।
(१७) “म्सौ गः स्यान्मदलेखा" । लक्षणमेतत् ।
सरलार्थः-यत्र क्रमशः प्रतिपादं मगण (sss)-सगणौ (15) एकश्च गुरुवर्णो (5) भवति सा मदलेखा कथ्यते ।
उदाहरणम्
यावद् केसरिनादो, नायाति श्रुतिमार्गम् । तावद् गन्धगजानां, गण्डे स्यान् मदलेखा ॥ छ. ।
(१८) "कुमारललिता ज्सौग्" । लक्षणमेतत् ।
छन्दोरत्नमाला-५४