________________
अथवा
मूतिर्मुरशत्रो - रत्यद्भुत - रूपा । आस्तां मम चित्ते, नित्यं तनुमध्या ।।
(१२) गायत्र्या एव षोडशं भेदमाह । शशिवदना न्यौ। लक्षणमिदम् ।
सरलार्थः-यस्य प्रतिचरणं क्रमशो नगण (1) यगण (Iss) संयुक्त भवति तत् शशिवदनानामकं छन्दः कथ्यते । उदाहरणम्
मनसिजलीला - कुलगृहभूमिः ।
कुवलयनेत्रा - शशिवदनेयम् ।। छ. ।। अथवा
शशिवदनानां, व्रजतरुणीनाम् । दधिघटभेदं, मधुरिपुरैच्छत् ।। (१३) गायत्र्या एव प्रथमो भेदः । “विद्युल्लेखा मो मः"। लक्षणमिदम् । ___ सरलार्थः-यस्य प्रतिचरणं मगण द्वयवद् भवति सा विद्युल्लेखा।
छन्दोरत्नमाला-५२