SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (७) अथ प्रतिष्ठा जातिभेदः प्रदर्श्यते । अस्याश्चत्त्वारो भेदाः प्रस्तारक्रियया षोडश भेदाः भवन्ति । चतुरक्षरकं छन्दः । म्गौ चेत् कन्या । लक्षणमेतत् । सरलार्थः-यस्य प्रतिपादं मगणश्चैको गुरुवर्णश्चैको भवति तत् कन्यानामकं छन्दो ज्ञेयम् । उदाहरणम्-. सर्वैर्देवैः येहाञ्चक्र । सेयं मन्ये धन्या कन्या ।। छ. ।। (८) स्गौ सुमतिः । लक्षणमिदम् । सरलार्थः-यत्रैकस्मिन् पादे सगणोत्तरमेको गुरुवर्णो भवति तत् सुमतिनामकं छन्दः कथ्यते । उदाहरणम् भज धर्म, वद सत्यम् । त्यज पापं, सुमतिः सन् ।। (६) अथ सुप्रतिष्ठा जातिर्दय॑ते । अत्र प्रस्तारक्रियाभेदैात्रिंशद्भेदा जायन्ते । तेषां सप्तमो भेदःभगौ गिति पङ्क्तिः । लक्षणमेतत् ।। सरलार्थः-यस्यैकस्मिन् चरणे एको भगणः (।।) छन्दोरत्नमाला-५०
SR No.002289
Book TitleChando Ratnamala
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1988
Total Pages174
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy