________________
उदाहरणम्
निःसारे, संसारे। सारं किं, स्यान्नारी ॥ छ. ।। अथवा
नारीणां कल्याणी। मां पायात् सा वाणी ॥ छ. ।। मध्यायाः जातेस्तृतीयो भेदः(५) रो मृगी। लक्षणमिदम् ।
सरलार्थः-यस्य प्रतिचरणमेकैको रगणो (sis) भवति तत् मृगी नामकं छन्दः कथ्यते । अस्यापरं नाम तडिदिति ।
उदाहरणम्
वल्लभा गेहिनी । सा मृगी-लोचना ।। छ. । (६) सो मदनः। लक्षरमिदम् ।
सरलार्थः-यस्य प्रतिपादमेकैकः सगणो (s) भवति तन्मदननामकं छन्दः कथ्यते। अस्यापरं नाम रजनीत्यपि ।
उदाहरणम्
विरहेऽभ्यधिकम् । मदनो दहति ।।
छन्दोरत्नमाला-४९