________________
सरलार्थः-यत्र पर्यन्ते षण्णामष्टानाञ्च मात्राणामन्ते भाद् भगणाद् आदिगुरोः गुरुकौ द्वौ गुरू स्याताम् एवमन्यत् पूर्वकथित वैतालीयवद् भवति तस्य नाम आपातलिका भवति । उदाहरणम्पिङ्गकेशी कपिलाक्षी, वाचाटाविकहोन्नतदन्तो । आपातलिका पुनरेषा, नृपति कुलेऽपि न भाग्यमुपैति । अथवागुरुकुलसेवी गुणरागी, गुरुभक्तो नियमोचितवृत्तः । सकलहितैषी मितवादी, यदि लोकः किमलभ्यमिह स्यात् ॥ (२१) दक्षिणान्तिकालक्षरणम्
तृतीय युग दक्षिणान्तिका समस्तपादेषु द्वितीय लः ।
सरलार्थः-समस्तपादेषु समस्तेषु चतुर्वपि चरणेषु द्वितीय लः-द्वितीया मात्रा, ल शब्दस्येह मात्राऽर्थः, तृतीय युग् तृतीयया मात्रया युग् युक्ता चेत् स्यात् तदा दक्षिणान्तिका नाम छन्दो भवति । चेत् तदा शब्दावद्याहायौं । सर्वेषु चरणेषु द्वितीयो वर्णो गुरुरेवविधेयः । तत एव द्वितीया मात्रा तृतीयया युक्ता भविष्यति । अतः न समाऽत्र पराश्रिता कला इति वैतालीय सामान्यलक्षणोक्तस्यायमपवादः ।
छन्दोरत्नमाला-४५