________________
जगणः स्यात् । शेषम् अर्थात् नवमी मात्रा लघुस्तत् पश्चात् गुरुश्चेत् षोडशमात्रिकमिदं छन्दः विश्लोक इति नाम्ना प्रसिद्धं भवति ।
उदाहरणम्भ्रातर्गुणरहितं विश्लोकं -
दुर्णयकरणकथितलोकम् । जातं महितकुलेऽप्यविनीतं ,
मित्रं परिहर साधु विगीतम् ।। (१५) चित्रालक्षणम्
"बारणाष्टनवसु यदि लश्चित्रा।"
सरलार्थः-यत्र पञ्चमाष्टमनवभ्यो मात्रा लघुरूपाः अन्यत् सर्वं पूर्ववत् षोडशमात्रायाः पादो। यत्र सा चित्रा भवति ।
उदाहरणम्यदि वाञ्छसि परपदमारोढुं ,
मैत्री परिहर सह वनिताभिः । मुह्यति मुनिरपि विषयासङ्गात् ,
चित्रा भवति हि मनसो वृत्तिः ॥
छन्दोरत्नमाला-४०