________________
(१३) अचलधृतिलक्षणम्
"द्विकगुणितवसुलघुरचलधृतिरिति ।" , द्वि-क-गु-णि-त-व-सु-ल-घु-र-च-ल-धृ-ति-रि-ति ।
सरलार्थः-द्विकगुणिता वसवो यत्र ते द्विकगुरिणत वसवः षोडशेत्यर्थः । षोडशलघवो मात्रा यस्मिन् छन्दसि सा अचलधृति नाम्ना प्रसिद्धयति । प्रत्येकं पादः षोडशमात्रा परिमित एवात्र जायते । पिङ्गलमुनिरेनां गीत्यार्येति नाम्ना व्यपदिशति ।
उदाहरणम्मदकलखगकुलकलरवमुखरिणि ,
विकसितसरसिजपरिमलसुरभिणि । गिरिवरपरिसरसरहिम हति खलु ,
रतिरतिशयमिह मम हृदि विलसति ॥ प्रत्र प्रतिपादं षोडशमात्राः लघुरूपाः सन्ति ।। (१४) विश्लोकलक्षणम्
"जोन्लावथाऽम्बुर्विश्लोकः ।" सरलार्थः-अम्बुधेश्चतुर्थ्या मात्रायाः पश्चात् यदि
छन्दौरत्नमाला-३९