________________
उदाहरणम्नित्यं नीतिनिषण्ण
स्य राज्ञो राष्ट्र न सीदति । नहि पथ्याशिनः काये ,
जायन्ते व्याधिवेदना ॥ अत्र समयोद्वितीय-चतुर्थयोश्चरणयोश्चतुर्थात् परं जगणो वर्तते।
(१२) चपलावक्त्रस्य लक्षणम्-- "चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः।"
सरलार्थः--चेत् यदि अयुजोः विषमचरणयोः पयोराशेरर्थात् चतुर्थात् अक्षरात् नकारः नगणः स्यात् तदा तच्छन्दः चपलावक्त्र भवतीति ज्ञेयम् । अत्र अयुजोरित्युक्त समयोऽस्तु यगण एवेति लभ्यं भवति ।
उदाहरणम्-- क्षीयमारणाग्रदशना
वक्त्रा निर्मास - नासाग्रा । कन्यका वस्त्र - चपला ,
लभते धूर्त सौभाग्यम् ॥
छन्दोरत्नमाला-३८